वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: त्रित आप्त्यः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣भि꣡ द्रोणा꣢꣯नि ब꣣भ्र꣡वः꣢ शु꣣क्रा꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । वा꣢जं꣣ गो꣡म꣢न्तमक्षरन् ॥७६५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥७६५॥

मन्त्र उच्चारण
पद पाठ

अ꣣भि꣢ । द्रो꣡णा꣢꣯नि । ब꣣भ्र꣡वः꣢ । शु꣣क्रा꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । वा꣡ज꣢꣯म् । गो꣡म꣢꣯न्तम् । अ꣡क्षरन् ॥७६५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 765 | (कौथोम) 1 » 2 » 19 » 2 | (रानायाणीय) 2 » 6 » 1 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में विद्वान् आचार्य के द्वारा दिये जाते हुए ज्ञानरसों का वर्णन है।

पदार्थान्वयभाषाः -

आचार्य से दिये जाते हुए (बभ्रवः) धारण-पोषण करनेवाले, (शुक्राः) पवित्र और प्रदीप्त ज्ञानरसरूप सोम (ऋतस्य) सत्य की (धारया) धारा के साथ (द्रोणानि) शिष्यों के हृदय-रूप द्रोण-कलशों को (अभि) लक्ष्य करके तीव्रता से बहते हैं और (गोमन्तम्) प्रकाशमय (वाजम्) आत्मबल को (अक्षरन्) स्रवित करते हैं ॥२॥

भावार्थभाषाः -

सुयोग्य आचार्य को पाकर विद्यार्थी लोग विद्यावान्, विवेकवान्, सत्यवान्, ज्योतिष्मान्,पवित्रहृदय तथा आत्मबलयुक्त होवें ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ विदुषाऽऽचार्येण दीयमानान् ज्ञानरसान् वर्णयति।

पदार्थान्वयभाषाः -

आचार्येण प्रदीयमानाः (बभ्रवः) धारण-पोषणकर्त्तारः। [डुभृञ् धारणपोषणयोः, जुहोत्यादिः। बिभर्ति इति बभ्रुः। ‘कुर्भ्रश्च उ० १।२२’ इति कुः प्रत्ययः धातोश्च द्वित्वम्।] (शुक्राः) पवित्राः दीप्ताः वा ज्ञानरसरूपाः सोमाः। [शुचिर् पूतीभावे दिवादिः। शोचतिः ज्वलतिकर्मा निघं० १।१६, शोचिष् शब्दस्य दीप्तिनामसु पाठात् (निघं० १।१७) दीप्त्यर्थोऽपि। ऋज्रेन्द्र उ० २।१९ इति रन् प्रत्ययः। शुच्यते पवित्रीभवति, शोचति दीप्यते वा यः स शुक्रः।] (ऋतस्य) सत्यस्य (धारया) प्रवाहसन्तत्या (द्रोणानि) शिष्याणां हृदयरूपान् द्रोणकलशान् (अभि) अभिद्रवन्ति [उपसर्गश्रुतेर्योग्यक्रियाध्याहारः।] किञ्च (गोमन्तम्) प्रकाशवन्तम् (वाजम्) आत्मबलम् (अक्षरन्) स्रावयन्ति ॥२॥

भावार्थभाषाः -

सुयोग्यमाचार्यं प्राप्य विद्यार्थिनो विद्यावन्तो विवेकवन्तः सत्यवन्तो ज्योतिष्मन्तः पवित्रहृदया आत्मबलयुक्ताश्च भवेयुः ॥२॥

टिप्पणी: १. ऋ० ९।३३।२